Ganpati Stotra
|| ओम श्री गणेशाय नमः || || श्री नारद उवाच ||
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरेनित्यम आयुः कामार्थ सिध्दये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम ॥२॥
लम्बोदरं पंचमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाष्टमम् ॥३॥
नवमं भालचंद्रं च दशमं तु विनायकम् एकादशं गणपतिं व्दादशं तु गजाननम ॥४॥
व्दादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः न च
विघ्नभयं तस्य सर्वसिध्दीकरं प्रभो ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥ ६॥
जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत् संवत्सरेण सिध्दीं च लभते नात्र सं
शयः ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
इति श्रीनारदपुराणे संकष्टनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम || || श्री गजाननार्पणमस्तु ||

Comments
Post a Comment